|| श्री दत्तस्तवनस्तोत्रम ||
भूतप्रेतपिशाच्चाद्दा यस्य स्मरणमात्रतः ||
दुरादेव पलायन्ते दत्तात्रेयं नमामि तं || १ ||
यन्नामस्मरणात-दैन्यं पापं तापश्च नश्यति ||
भीतिग्रहार्ति दु:स्वप्नं दत्तात्रेयं नमामि तं || २ ||
दद्रुस्फोटक कुष्ठादि महामारी विषूचिका ||
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं || ३ ||
संगजा देशकालोत्था अपि सांक्रमिका गदा: ||
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं || ४ ||
सर्पवृश्चिकदुष्टानां विषार्तानां शरीरिणाम ||
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तं || ५ ||
त्रिविधोत्पातशमनं विधीधारिष्टनाशनम ||
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं || ६ ||
वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ||
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं || ७ ||
यत शिष्यस्मरणातंसद्दो गतनष्टादि लभ्यते ||
य ईश: सर्वत:त्राता दत्तात्रेयं नमामि तं || ८ ||
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ||
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत || ९ ||
|| इति श्री वासुदेवानन्द सरस्वती विरचितं श्री दत्तस्तवनस्तोत्रम
संपूर्णम ||श्री स्वामी समर्थ जय जय स्वामी समर्थ ॥
No comments:
Post a Comment