Tuesday, 1 January 2019

चंद्र कवच

*|| चंद्र कवचम्‌ ||*

श्री गणॆशायनम:

अस्य श्री चंद्र कवच स्तॊत्र महा मंत्रस्य । गौतम ऋषि: । अनुष्टुप छंद: ।
श्री चंद्रॊ दॆवता । चंद्र: प्रीत्यर्थॆ जपॆ विनियॊग: ॥

कवचं

समं चतुर्भुजं वंदॆ कॆयूर मकुटॊज्वलम्‌ ।
वासुदॆवस्य नयनं शंकरस्य च भूषणम्‌ ॥

ऎवं ध्यात्वा जपॆन्नित्यं शशिन: कवचं शुभम्‌ ।
शशि: पातु शिरॊ दॆशं फालं पातु कलानिधि ॥

चक्षुषि: चंद्रमा: पातु श्रुती पातु निशापति: ।
प्राणं कृपाकर: पातु मुखं कुमुदबांधव: ॥

पातु कंठं च मॆ सॊम: स्कंधॆ जैवातृकस्तथा ।
करौ सुधाकर: पातु वक्ष: पातु निशाकर: ।

हृदयं पातु मॆ चंद्रॊ नाभिं शंकरभूषण: ।
मध्यं पातु सुरश्रॆष्ट: कटिं पातु सुधाकर: ।

ऊरू तारापति: पातु मृगांकॊ जानुनी सदा ।
अभ्दिज: पातु मॆ जंघॆ पातु पादौ विधु: सदा ।

सर्वाण्यन्यानि चांगानि पातु चंद्रॊखिलं वपु: ।
ऎतद्धिकवचं दिव्यं भुक्ति मुक्ति प्रदायकम्‌ ।

य: पठॆत च्छृणुयाद्वापि सर्वत्र विजयी भवॆत ।

॥इती श्री चंद्र कवचं संपूर्णम्‌ ॥

No comments:

Post a Comment