Monday, 16 May 2016

सूर्य स्तवन

अथ सूर्यस्तवराजः वसिष्ठ उवाच । स्तुवन्नासीत्ततः साम्बः कृशो धमनिसन्ततः । राजन्नामसहस्त्रेण सहस्त्रांशुं दिवाकरम् ॥ १ ॥ खिद्यमानं तु तं दृष्ट्वा सूर्यः कृष्णात्मजं तदा । स्वप्ने तु दर्शनं दत्त्वा पुनर्वचनमब्रवीत् ॥ २ ॥ श्रीसूर्य उवाच । साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत । अलं नामसहस्त्रेण पठस्वेमं स्तवं शुभम् ॥ ३ ॥ यानि नामानि गुह्यानि पवित्राणि शुभानि च । तानि ते कीर्तयिष्यामि श्रुत्वा तच्चावधारय ॥ ४ ॥ विकर्तनो विवस्वांश्र्च मार्तण्डो भास्करो रविः । लोकप्रकाशकः श्रीमान् लोकचक्षुर्ग्रहेश्र्वरः ॥ ५ ॥ लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । तपनस्तापनश्र्चैव शुचिः सप्ताश्र्ववाहनः ॥ ६ ॥ गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । एकविंशतिरित्येष स्तव इष्टः सदा मम ॥ ७ ॥ लक्ष्म्यारोग्यकरश्र्चैव धनवृद्धियशस्करः । स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ८ ॥ य एतेन महाभाग द्वे सन्ध्येऽस्तमयोदये । स्तौति मां प्रणतो भूत्वा सर्वपापैः प्रमुच्यते ॥ ९ ॥ कायिकं वाचिकं चैव मानसं चैव दुष्कृतम् । एकजप्येन तत्सर्वं प्रणश्यति ममाग्रतः ॥ १० ॥ एष जप्यश्र्च होमश्र्च सन्ध्योपासनमेव च । बलिमन्त्रोऽर्घ्यमन्त्रश्र्च धूपन्त्रस्तथैव च ॥ ११ ॥ अन्नदाने च स्नाने च प्रणिपाते प्रदक्षिणे । पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः ॥ १२ ॥ एवमुक्त्वा तु भगवान भास्करो जगदीश्र्वरः । आमन्त्र कृष्णतनयं तत्रैवान्तरधीयत ॥ १३ ॥ साम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्र्ववाहनम् । पूतात्मा नीरुजः श्रीमान् बलैश्र्वर्ययुतोऽभवत् ॥ १४ ॥ ॥ इति श्रीसाम्बपुराणे रोगापनयने श्रीसूर्यवक्त्रविनिर्गतः सूर्यस्तवराजः समाप्तः ॥

No comments:

Post a Comment