श्री गणपति स्तोत्र
नमस्ते गणनाथाय गणानां पतये नमः I
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक II १ II
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च I
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः II २ II
वरदाभयहस्ताय नमः परशुधारिणे I
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः II ३ II
अनामयाय सर्वाय सर्व पूज्याय ते नमः I
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च II ४ II
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोsस्तु ते I
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः II ५ II
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः I
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः II ६ II
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोsस्तु ते I
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः II ७ II
II इति श्री गणपति स्तोत्रं संपूर्णं II
:
Sunday, 6 May 2018
श्री गणपती स्तोत्र
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment