Thursday, 21 March 2019

श्री दत्तात्रय स्तुति

🕉🕉🕉🕉🕉🕉🕉🕉

*श्री दत्तात्रेय स्तुती* 🚩🚩🚩

*दत्तात्रेयं सनातनं ब्रह्म निरञ्जनम् |*
*आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् || १ ||*

*चिन्मयं व्यापितं सर्वं चिदाकाशं दिगम्बरम् |*
*निर्विकल्पं निराभासं दृश्यदर्शनवर्जितम् || २ ||*

*अगोचरं निरालम्बं ब्रह्मचारी यतीश्वरः |*
*बर्गलोकनायकं स्म्पूर्णं परमात्मनरक्षकः || ३ ||*

*आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः |*
*शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः || ४ ||*

*दत्तात्रेय नाथोत्तमं सुखदं परमानन्दसागरम् |*
*चित्कीर्तिभूषणं वन्दे स्मर्तृगामी स माऽवतु || ५ ||*

*हर्षवर्धनं वन्दे कौवल्यसुखदायकं |*
*सकलागमपूजितं वन्दे स्मर्तृगामी स माऽवतु || ६ ||*

*संसारतमनाशनं संकल्पदु:खदलनम् |*
*तापत्रयनिवारकं वन्दे स्मर्तृगामी स माऽवतु || ७ ||*

*संशयार्णवखण्डनं दोषत्रयविभेदिनम् |*
*ब्रह्मप्रकाशात्मानं वन्दे स्मर्तृगामी स माऽवतु || ८ ||*

*भार्गवप्रियकृत्तमं दूरत्वपरिनाशनम्|*
*जगदार्जवपालनं वन्दे स्मर्तृगामी स माऽवतु || ९ ||*

*नमस्ते कालाग्निशमनाय योगिजनवल्लभाय नमोऽस्तु ते |*
*नमस्ते अत्रिपुत्राय दत्तात्रेयाय नमोऽस्तु ते || १० ||*

*नमस्ते लीलाविश्वम्भराय अवधूताय नमोऽस्तु ते |*
*नमस्ते अनसूयानन्दनाय दिगम्बराय नमोऽस्तु ते || ११ ||*

*नमस्ते सत्वसाध्याय सत्वसाक्षिणे नमोऽस्तु ते |*
*नमस्ते गुह्यतमाय चिद् विलासाय नमोऽस्तु ते || १२ ||*

*नमस्ते क्षेत्राधाराय क्षेत्रशून्याय नमोऽस्तु ते |*
*नमस्ते रुपकारणाय गगनाकृतये नमोऽस्तु ते || १३ ||*

*श्री दत्तात्रेय पाहि मां प्रसीद दिगम्बर |*
*क्षमस्व अवधूत रक्ष रक्ष श्रीगुरो || १४ ||*

🙏🏻🌼🌼🚩🚩🌼🌼🙏🏻

No comments:

Post a Comment