*।। श्री सूक्त 🌸🌺🙏🏻🙏🏻।।*
🌸ॐहिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मsआवह ।। १ ।।
🌸 तां मsआवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।। २। ।
🌸 अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ।। ३ ।।
🌸 कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।। ४ ।।
🌸 चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।। ५ ।।
🌸 आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसा नुदन्तु- मायान्तरायाश्च बाह्या अलक्ष्मीः ।। ६ ।।
🌸 उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे ।। ७ ।।
🌸 क्षुत्पिपासामलां ज्येष्ठा- मलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ।। ८ ।।
🌸 गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।। ९ ।।
🌸 मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ।। १० ।। 🌸 कर्दमेन प्रजाभूतामयि सम्भवकर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ।। ११ ।।
🌸 आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे निचदेवीं मातरं श्रियं वासय मे कुले ।। १२ ।।
🌸आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो मSआवह ।।१३ ।।
🌸 आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मSआवह ।। १४ ।।
🌸 तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावोदास्यो श्वान्विन्देयं पुरुषानहम् ।। १५ ।।
🌸 यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ।। १६ ।।
🌸 पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे । तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् ।। १७ ।। 🌸 अश्वदायी गोदायी धनदायी महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ।।१८।।
🌸 पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व ।।१९ ।।
🌸 पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु मे ।। २० ।।
🌸 धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पति र्वरुणं धनमस्तु ते ।। २१ ।।
🌸 वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ।। २३ ।।
🌸 न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ।। २४ ।।
🌸 सरसिजनिलये सरोजहस्ते , धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे , त्रिभुवनभूतिकरि प्रसीद मह्यम् ।। २५।।
🌸 विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् । लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ।। २६ ।।
🌺 महालक्ष्मी च विद्महे , विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ।।२७।।
( 🌼 ऋणरोगादि दारिद्य पापंक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तु मम सर्वदा ।। )
🌺 श्रीवर्चस्व मायुष्यमारोग्यमा विधाच्छोभमानं महीयते । धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।। २८ ।। 👏🏻👏🏻👏🏻👏🏻
*श्री स्वामी समर्थ*
💐🚩🌿🙏🏻🙏🏻🌿🚩💐
For Sri Suktam with meaning please visit - Deogahr.co -Sri Suktam With Meaning
ReplyDelete