Sunday, 3 September 2017

श्री गणेश मानसपूजा

नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितम् । स्नानं जान्हविवारिणा गणपते पीतांबरं गृह्यताम् । कंठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुंडले । नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ १ ॥ भाले चर्चितकेशरं मृगमदामोदांकितं चंदनम् । नानावृक्षसमुद्गतं सुकुसुमं मंदारदुर्वाशमीः । गुग्गूल्लोद्धवधूपकं विरचितं दीपं त्वदग्रे स्थितम् । स्वीकृत ते गणेश भक्ष्यं जंबूफलं दक्षिणाम् ॥ २ ॥ साष्टांगं प्रणतोऽस्मि ते मम कृता पूजा गृहाण प्रभो । मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिंगने । स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादांबुजे । प्रसीद मम पूजने गणपते मम वांच्छा तव दर्शने ॥ ३ ॥ माता गणेशश्र्च पिता गणेशो । भ्राता गणेशश्र्च सखा गणेशः । विद्यागणेशो द्रविणं गणेशः । स्वामी गणेशः शरणं गणेशः ॥ ४ ॥ इतो गणेशः परतो गणेशः । यतो यतो यामि ततो गणेशः । गणेशदेवादपरं न किंचित् । तस्मात् गणेशं शरणं प्रपद्ये ॥ ५ ॥ इति श्रीगणेश मानसपूजा संपूर्णं ॥

No comments:

Post a Comment