Sunday, 23 July 2017

रेणुका देवी आरती

🌹 *संस्कृत आरती* 🌹

*श्रीरेणुकेची आरती*

जयदेवि जयदेवि जय श्रीरेणूके । विधिमुखविबुधाराधित सेवित रेणूके ॥धृ०॥

विस्मृतवेदब्रह्मा ध्यात्वाsत्रिजमीशं । नत्वा विविधै: स्तोत्रैस्तुष्टाव परेशं ।
तत्कथितत्वन्महिमानं ब्रह्म सुरेशं । स्मारयसि त्वां वन्दे कुरु करुणालेशं ॥१॥

गुरुबोधितकृतवीर्यजतपसा दत्त: स्यात् । संतुष्टोपि च राज्ञे चेप्सितवरद: स्यात् ।
पित्रर्थं रामस्तुतदत्तस्याsस्याssस्यात् । स्तुतरूपे रक्षय मां बहुविधजन्मभयात् ॥२॥

विधिहर्योश्च ममैतत्पूज्यत्वं प्राप्तं । यत्पूजनत: शंभुश्चेत्यवदत्स्वसुतं ।
एनं त्वन्महिमानं के जानंति कथं । कृपया ज्ञानं बोधय निजपदरतभक्तं ॥३॥

*संकलन :- अशोककाका कुलकर्णी*

No comments:

Post a Comment