Sunday, 23 July 2017

प्रातः स्मरण 2

🌹 *प्रात:स्मरण* 🌹

*श्रीगणेशाय नम: ।*
*श्रीसरस्वत्यै नम: ।*
*श्रीसोमेश्र्वराय नम: ।* *श्रीविश्वेश्वराय नम: ।*
*श्री कुलदेवताभ्यो नम: ॥*

🚩🚩🚩🚩🚩🚩🚩🚩🚩

*कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती ।*
*करमूले तु गोविंद : प्रभाते करदर्शनम् ॥*

🚩🚩🚩🚩🚩🚩🚩🚩🚩

*या कुन्देन्दुतुषार हारधवला या शुभ्रवस्त्रावृत ।*
*या वीणावरद्ण्डमण्डितकरा या श्र्वेतपद्मासना ।*
*या ब्रह्माच्युत शंकरप्रभृतिभिर्देवै: सदा वन्दिता ।*
*सा मां पातु सरस्वती भगवती नि: शेषजाड्यापहा ॥*

🚩🚩🚩🚩🚩🚩🚩🚩🚩

*समुद्रवसने देवि पर्वतस्तनमण्डले ।*
*विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥*

🚩🚩🚩🚩🚩🚩🚩🚩🚩

*वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।*
*निर्विघ्नं करु मे देव सर्व कार्येषु सर्वदा ॥*
*गणनाथ सरस्वती रविशुक्रबृहस्पतीन् ।*
*पश्र्चैतान्संस्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥*

🚩🚩🚩🚩🚩🚩🚩🚩

*शांताकारं भुजगशयनं पद्मनाभं सुरेशं ।*
*विश्वाधारं गगनसदृशं मेघवर्णं शुभाड्गम् ।*
*लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।*
*वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥*

🚩🚩🚩🚩🚩🚩🚩🚩

*मूकं करोति वाचालं पंगुम् लंघयते गिरीम् ।*
*यक्तृपा तमहं वन्दे परमानन्दमाधवम् ॥*

🚩🚩🚩🚩🚩🚩🚩🚩🚩

*गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर: ।*
*गुरु: साक्षातपरब्रह्म तस्मै श्रीगुरवे नम: ॥*

🚩🚩🚩🚩🚩🚩🚩🚩

*ब्रह्मानंन्दे परमसुखंदे केवलं ज्ञानमूर्तिम् ।*
*द्वंद्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।*
*एकं नित्यं विमलमचलं सर्वधी: साक्षिभूतं ।*
*भावतीतं त्रिगुणरहित सद्गुरुं तं नमामि ॥*

🚩🚩🚩🚩🚩🚩🚩🚩🚩

*पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिर: ।*
*पुण्यश्लोको विदेहश्र्च पुण्यश्लोको जनार्दन : ॥*
*कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।*
*ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥*

🚩🚩🚩🚩🚩🚩🚩🚩

*अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।*
*शंखपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥१॥*
*एतानि नव नामानि नागानां च महात्मनाम् ।*
*सायंकाले पठेन्नित्यं प्रात: काले विशेषत: ।*
*तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥२॥*

*( क्रमशः )*

*अशोककाका कुलकर्णी*

No comments:

Post a Comment