Thursday, 23 February 2017

शिव महिमा स्तोत्र

शिव महिम्न स्तोत्रम् | Shiva Mahimna Stotra महिम्नः पारं ते परमविदुषो यद्यसदृशी । स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।। अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् । ममाप्येष स्तोत्रे हर निरपवादः परिकरः ।।१।। अतीतः पंथानं तव च महिमा वाङ्मनसयोः । अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।। स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः । पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।।२।। मधुस्फीता वाचः परमममृतं निर्मितवतः । तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।। मम त्वेतां वाणीं गुणकथनपुण्येन भवतः । पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ।।३।। तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् । त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।। अभव्यानामस्मिन् वरद रमणीयामरमणीं । विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ।।४।। किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं । किमाधारो धाता सृजति किमुपादान इति च ।। अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः । कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ।।५।। अजन्मानो लोकाः किमवयववन्तोऽपि जगतां । अधिष्ठातारं किं भवविधिरनादृत्य भवति ।। अनीशो वा कुर्याद् भुवनजनने कः परिकरो । यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।।६।। त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति । प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।। रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां । नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।।७।। महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः । कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।। सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां । न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।।८।। ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं । परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ।। समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव । स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।।९।। तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः । परिच्छेतुं यातावनिलमनलस्कन्धवपुषः ।। ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत् । स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।।१०।। अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं । दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् ।। शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः । स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।।११।। अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं । बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।। अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि । प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।।१२।। यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं । अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।। न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः । न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ।।१३।। अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा । विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः ।। स कल्माषः कण्ठे तव न कुरुते न श्रियमहो । विकारोऽपि श्लाघ्यो भुवन-भय-भङ्ग-व्यसनिनः ।।१४।। असिद्धार्था नैव क्वचिदपि सदेवासुरनरे । निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।। स पश्यन्नीश त्वामितरसुरसाधारणमभूत् । स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ।।१५।। मही पादाघाताद् व्रजति सहसा संशयपदं । पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह-गणम् ।। मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा । जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ।।१६।। वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः । प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।। जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति । अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ।।१७।। रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो । रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति ।। दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः । विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ।।१८।। हरिस्ते साहस्रं कमल बलिमाधाय पदयोः । यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।। गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः । त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ।।१९।। क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां । क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।। अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं । श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ।।२०।। क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां । ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ।। क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः । ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ।।२१।। प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं । गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।। धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं । त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ।।२२।। स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् । पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।। यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात् । अवैति त्वामद्धा बत वरद मुग्धा युवतयः ।।२३।। श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः । चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ।। अमङ्गल्यं शीलं तव भवतु नामैवमखिलं । तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ।।२४।। मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः । प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः ।। यदालोक्याह्लादं ह्रद इव निमज्यामृतमये । दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ।।२५।। त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः । त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।। परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं । न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ।।२६।। त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् । अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।। तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः । समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम् ।।२७।। भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान् । तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।। अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि । प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ।।२८।। नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः । नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।। नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः । नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ।।२९।। बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः । प्रबल-तमसे तत् संहारे हराय नमो नमः ।। जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः । प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ।।३०।। कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं । क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः ।। इति चकितममन्दीकृत्य मां भक्तिराधाद् । वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ।।३१।। असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे । सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ।। लिखति यदि गृहीत्वा शारदा सर्वकालं । तदपि तव गुणानामीश पारं न याति ।।३२।। असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः । ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य ।। सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः । रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ।।३३।। अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् । पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ।। स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र । प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ।।३४।। महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ।।३५।। दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ।।३६।। कुसुमदशन-नामा सर्व-गन्धर्व-राजः । शशिधरवर-मौलेर्देवदेवस्य दासः ।। स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात् । स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ।।३७।। सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं । पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः ।। व्रजति शिव-समीपं किन्नरैः स्तूयमानः । स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ।।३८।। आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम् । अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ।।३९।। इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ।।४०।। तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ।।४१।। एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ।।४२।। श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन । स्तोत्रेण किल्बिष-हरेण हर-प्रियेण ।। कण्ठस्थितेन पठितेन समाहितेन । सुप्रीणितो भवति भूतपतिर्महेशः ।।४३।। ।। इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम् ।। 

No comments:

Post a Comment