*॥ श्रीदत्तमहामाला मन्त्र ॥*
*अथ श्री दत्त माला प्रारंभते,*
*ॐ श्री गणेशाय नमः,*
*ॐ श्री पार्वत्युवाच--*
*मालामंत्रं मम,*
*ब्रृहि प्रियायस्मादहं तवं,*
*ईश्वर उवाच--*
*श्रूणु देवी प्रवक्ष्यमि*
*मालामन्त्रमनुत्तमम् |*
_*ॐ नमो भगवते श्री दत्तात्रेयाय,*_
*स्मरणमात्रसन्तुष्टाय,*
*महाभयनिवारणाय,*
*महाज्ञानप्रदाय,*
*चिदानन्दात्मने,*
*बालोन्मत्तपिशाचवेषाय,*
*महायोगिने अवधूताय,*
*अनसूयानन्दवर्धनाय,*
*अत्रिपुत्राय,*
*ॐ भवबन्धविमोचनाय,*
*ॐ असाध्यसाधनाय,*
*ह्रीं सर्वविभूतिदाय,*
*क्रौं असाध्याकर्षणाय,*
*ऐं वाक्प्रदाय,*
*क्लीं जगत्रयवशीकरणाय,*
*सौः सर्वमनःक्षोभणाय,*
*श्रीं महासम्पत्प्रदाय,*
*ग्लौं भूमण्डलाधिपत्यप्रदाय,*
*द्रां चिरंजीविने,*
*वषट्वशीकुरु वशीकुरु,*
*वौषट् आकर्षय आकर्षय,*
*हुं विद्वेषय विद्वेषय,*
*फट् उच्चाटय उच्चाटय,*
*ठः ठः स्तम्भय स्तम्भय,*
*खें खें मारय मारय,*
*नमः सम्पन्नय सम्पन्नय,*
*स्वाहा पोषय पोषय,*
*परमन्त्र, परयन्त्र,*
*परतन्त्राणि*
*छिन्धि छिन्धि,*
*ग्रहान्निवारय निवारय,*
*व्याधीन् विनाशय विनाशय,*
*दुःखं हर हर,*
*दारिद्र्यं विद्रावय विद्रावय,*
*देहं पोषय पोषय,*
*चित्तं तोषय तोषय,*
*सर्वमन्त्रस्वरूपाय,*
*सर्वयन्त्रस्वरूपाय,*
*सर्वतन्त्रस्वरूपाय,*
*सर्वपल्लवस्वरूपाय,*
*ॐ नमो महासिद्धाय स्वाहा.*
(चतु:शत जपात् सिध्दी)
*ओम नमो गुरवे वासुदेवाय,*
*ॐ श्री गुरुदेव दत्त.दत्त*
No comments:
Post a Comment