प्रणवऊ पवनकुमर खलबल पावक ज्ञान धन
जासु हृदय आगार बसहि राम सर चाप धर ll
अतुलित बल धामम ,हेमशैलाभदेह l
दनुजवन कृशानु ज्ञानिनामग्रगण्यम ll
सकल गुणनिधानं वानरानामधीशम l
रघुपतीप्रिय भक्तम वातजातम नमामि ll
गोष्पदी- कृत- वारीशं मशकी- कृत- राक्षसम् ।
रामायण- महामाला- रत्नं वन्देऽनिलात्मजम् ॥
अंजना- नन्दनं- वीरं जानकी- शोक- नाशनम् ।
कपीशमक्ष- हन्तारं वन्दे लङ्का- भयङ्करम् ॥
महा- व्याकरणाम्भोधि- मन्थ- मानस- मन्दरम् ।
कवयन्तं राम- कीर्त्या हनुमन्तमुपास्महे ॥
उल्लंघ्य सिन्धोः सलिलं सलीलं
यः शोक- वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्रांजलिरांजनेयम् ॥
मनोजवं मारुत- तुल्य- वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर- यूथ- मुख्यं
श्रीराम- दूतं शिरसा नमामि ॥
आञ्जनेयमतिपाटलाननं
कांचनाद्रि- कमनीय- विग्रहम् ।
पारिजात- तरु- मृल- वासिनं
भावयामि पवमान- नन्दनम् ॥
No comments:
Post a Comment